Yajurveda
VSM 7.3
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒: पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑ᳪं᳭शो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्लुता॑ भ॒ङ्गेन॑ ह॒तोऽसौ॒ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ।। ३।। (१ उपरिप्रुता इति पाठः.) उ० जुहोति । स्वांकृतोऽसि स्वयं कृतोऽसि । स्वयं कृतोसीति प्राप्ते छन्दसि यकारलोपः । स्वयमुत्पन्नोसि । 'प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातः' इति श्रुतिः । स्वयमुत्पन्नोऽसि विश्वेभ्य इन्द्रियेभ्यः सकाशात् । दिव्येभ्यः देवेभ्यः पार्थिवेभ्यः द्विपदचतुष्पदेभ्यः सकाशात् स्वयमुत्पन्नोऽसि इत्यनुवर्तते । यस्त्वमेवं स्वतन्त्रोऽकृतकः तं मनः त्वाष्टु । मनः प्रजापतिः त्वां व्याप्नोतु । 'प्रजापतिर्वै मनः । प्रजापतिष्ट्वाश्नुताम्' इति श्रुतिः । स्वाहा त्वा सुभव सूर्याय । स्वाहाकारेण त्वां जुहोमीति शेषः । हे शोभन, भव ग्रह । सूर्याय प्रागुपमार्ष्टि मध्यमे परिधौ । देवेभ्यः त्वा । देवेभ्यो मरीचिपेभ्योऽर्थाय त्वामुपमार्ज्मीति शेषः । बाह्वादिश्लिष्टमंशुमभिचारं जुहुयात् । देवोᳪं᳭शो। हे देव सोमांशो, यस्मै वधाय त्वाम् ईडे । ईडिरध्येषणाकर्मा । प्रार्थयामि । तत्सत्यमस्त्विति शेषः । उपरिप्लुता प्लवतिर्गत्यर्थः। उपर्युपरिगतेन भङ्गेन आमर्दनेन हतो निहतः। असाविति नामादेशः । फट् । 'ञिफला विशरणे' । क्विबन्तस्यैतद्रूपम् डलयोरेकत्वात् । विशीर्यतु फटिति अभिचारे स्वाहाकारस्य स्थाने प्रयुज्यते । पात्रासादनम् । प्राणाय त्वा । सादयामीति शेषः । उपांशुसवनं सादयति । व्यानाय त्वा ॥३॥
Translation
Self-made art thou from all the Powers that are in heaven
and on the earth.
May the Mind win thee, thee, All-hail! for Sûrya, O thou
nobly-born.
Thee for the Deities who sip light-atoms.
Truly fulfilled, O Plant divine, be that for which I pray to
thee.
With ruin falling from above may So-and-So be smitten,
crash!
Thee for out-breathing, thee for breath diffused!Fixed phrases in this verse
- devebhyastvāin 6 verses · across RV, YV
- sūryāya svāhākāreṇain 5 verses · across YV, AV · matched across sandhi
VG:YV:VSM:A07:V003cited as VSM 7.3